संपूर्ण कवच- “द” से “भ” तक


॥ श्री गणेशाय नमः ॥
॥ श्री कमलापति नम: ॥
॥ श्री जानकीवल्लभो विजयते ॥
॥ श्री गुरूदेवाय नमः ॥
दान करें 🗳



मुख पृष्ठसंपूर्ण कवच“द” से “भ” तक

संपूर्ण कवच

संपूर्ण कवच “द” से “भ” तक कवच

आपके चारों ओर नकारात्मकता को खत्म करने के लिए एक शक्तिशाली मंत्रो के संग्रह को कवच कहते है। यह किसी भी बुरी आत्माओं से रक्षा करने में एक कवच के रूप में कार्य करता है।
मंत्रो में नकारात्मक, प्रतिकूल कंपन को अधिक सकारात्मक और आकर्षक कंपन में बदलने की क्षमता होती है। ऐसा कहा जाता है कि वह व्यक्ति जो ईमानदारी से भक्ति और सही उच्चारण के साथ नियमित रूप से कवच को पढ़ता है, वह सभी बुराइयों से संरक्षित रहता है।

दक्षिणकालिका कवच

 अत्यधिक पढ़ा गया लेख: 8M+ Viewers
सनातन संस्कृति मे पौराणिक कथाओं के साथ-साथ मंत्र, आरती और पुजा-पाठ का विधि-विधान पूर्वक वर्णन किया गया है। यहाँ पढ़े:-

कैलास शिखरारूढं भैरवं चन्द्रशेखरम् । वक्षःस्थले समासीना भैरवी परिपृच्छति ॥

भैरव्युवाच

देवेश परमेशान लोकानुग्रहकारकः । कवचं सूचितं पूर्वं किमर्थं न प्रकाशितम् ॥

यदि मे महती प्रीतिस्तवास्ति कुल भैरव ।कवचं कालिका देव्याः कथयस्वानुकम्पया ॥

भैरवोवाच

अप्रकाश्य मिदं देवि नर लोके विशेषतः । लक्षवारं वारितासि स्त्री स्वभावाद्धि पृच्छसि ॥

भैरव्युवाच

सेवका वहवो नाथ कुलधर्म परायणाः । यतस्ते त्यक्तजीवाशा शवोपरि चितोपरि ॥

तेषां प्रयोग सिद्धयर्थ स्वरक्षार्थ विशेषतः । पृच्छामि बहुशो देव कथयस्व दयानिधे ॥

भैरवोवाच

कथयामि श्रृणु प्राज्ञे कालिका कवचं परम् ।गोपनीयं पशोरग्रे स्वयोनिम परे यथा ॥

अन्य दक्षिणकालिका कवच

अस्य श्री दक्षिणकालिका कवचस्य भैरव ऋषिः, उष्णिक् छन्द:, अद्वैतरूपिणी श्री दक्षिणकालिका देवता, ह्नीं बीजं, हूं शाक्तिः. क्रीं कीलकं सर्वार्थ साधन पुरःसर मंत्र सिद्धौ विनियोगः ।

 कवचम्

सहस्त्रारे महापद्मे कर्पूरधवलो गुरुः । वामोरुस्थिततच्छक्तिः सदा सर्वत्र रक्षतु ॥

परमेश: पुरः पातु परापर गुरुस्तथा । परमेष्ठी गुरुः पातु दिव्य सिद्धिश्च मानवः ॥

महादेवी सदा पातु महादेव: सदावतु । त्रिपुरो भैरवः दिव्यरूपधरः सदा ॥

ब्रह्मानन्दः सदा पातु पूर्णदेवः सदावतु । चलश्चित्तः सदा पातु पातु चेलाञ्चलश्च पातु माम् ॥

कुमारः क्रोधनश्चैव वरदः स्मरदीपन: । मायामायावती चैव सिद्धौघा: पातु सर्वदा ॥

विमलो कुशलश्चैव भीजदेवः सुधारकः । मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ॥

मूलदेवो रतिदेवो विघ्नेश्वर हुताशान: । सन्तोषः समयानन्दः पातु माम मनवा सदा ॥

सर्वेऽप्यानन्दनाथान्तः अम्बान्तां मातरः क्रमात् । गणनाथः सदा पातु भैरवः पातु मां सदा ॥

बटुको नः सदा पातु दुर्गा मां परिरक्षतु । शिरसः पाद पर्यन्तं पातु मां घोरदक्षिणा ॥

तथा शिरसि माम काली ह्यदि मूले च रक्षतु । सम्पूर्ण विद्यया देवी सदा सर्वत्र रक्षतु ॥

 अत्यधिक पढ़ा गया लेख: 8M+ Viewers
सनातन संस्कृति मे पौराणिक कथाओं के साथ-साथ मंत्र, आरती और पुजा-पाठ का विधि-विधान पूर्वक वर्णन किया गया है। यहाँ पढ़े:-

क्रींक्रीं क्रीं वदने पातु हृदि हूं हूं सदावतु । ह्नीं ह्नीं पातु सदाधोर दक्षिणेकालिके हृदि ॥

क्रीं क्रीं क्रीं पातु मे पूर्वे हूं हूं दक्षे सदावतु । ह्नीं ह्नीं मां पश्चिमे पातु हूं हूं पातु सदोत्तरे ॥

पृष्ठे पातु सदा स्वाहा मूला सर्वत्र रक्षतु । षडङ्गे युवती पातु षडङ्गेषु सदैव माम् ॥

मंत्रराजः सदा पातु ऊर्ध्वाधो दिग्विदिक् स्थितः । चक्रराजे स्थिताश्चापि देवताः परिपान्तु माम् ॥

उग्रा उग्रप्रभा दीप्ता पातु पूर्वे त्रिकोणके । नीला घना वलाका च तथा परत्रिकोणके ॥

मात्रा मुद्रा मिता चैव तथा मध्य त्रिकोणके । काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥

बहिः षट्‌कोणके पान्तु विप्रचित्ता तथा प्रिये । सर्वाः श्यामाः खड्‌गधरा वामहस्तेन तर्जनीः ॥

ब्राह्मी पूर्वदले पातु नारायणि तथाग्निके । माहेश्वरी दक्षदले चामुण्डा रक्षसेऽवतु ॥

कौमारी पश्चिचे पातु वायव्ये चापराजिता । वाराही चोत्तरे पातु नारासिंही शिवेऽवतु ॥

ऐं ह्नीं असिताङ्ग पूर्व भैरवः परिरक्षतु । ऐं ह्णीं रुरुश्चाजिनकोणे ऐं ह्नीं चण्डस्तु दक्षिणे ॥

ऐंह्नीं क्रोधो नैऋतेऽव्यात् ऐं ह्नीं उन्मत्तकस्तथा । पश्चिमे पातु ऐं ह्नीं मां कपाली वायु कोणके ॥

ऐं ह्नीं भीषणाख्यश्च उत्तरे ऽवतु भैरवः । ऐं ह्नीं संहार ऐशान्यां मातृणामङ्कया शिवः ॥

ऐं हेतुको वटुकः पूर्वदले पातु सदैव माम् । ऐं त्रिपुरान्तको वटुकः आग्नेय्यां सर्वदावतु ॥

ऐंवह्नि वेतालो वटुको दक्षिणे मामा सदाऽवतु । ऐं अग्निजिह्व वटुको ऽव्यात् नैऋत्यां पश्चिमे तथा ॥

ऐं कालवटुक: पातु ऐं करालवटुकस्तथा । वायव्यां ऐं एकः पातु उत्तरे वटुको ऽवतु ॥

ऐं भीम वटुकः पातु ऐशान्यां दिशि माम सदा । ऐं ह्णीं ह्नीं हूं फट् स्वाहान्ताश्चतुः षष्टि च मातरः ॥

ऊर्ध्वाधो दक्षवामागें पृष्ठदेशे तु पातु माम् । ऐं हूं सिंह व्याघ्रमुखी पूर्वे मां परिरक्षतु ॥

ऐं कां कीं सर्पमुखी अग्निकोणे सदाऽवतु । ऐं मां मां मृगमेषमुखी दक्षिणे मां सदाऽवतु ॥

ऐंचौं चौं गजराजमुखी नैऋत्यां मां सदाऽवतु । ऐं में में विडालमुखी पश्चिमे पातु मां सदा ॥

ऐं खौं खौं क्रोष्टुमुखी वायुकोणे सदाऽवतु । ऐं हां हां ह्नस्वदीर्घमुखी लम्बोदर महोदरी ॥

 अत्यधिक पढ़ा गया लेख: 8M+ Viewers
सनातन संस्कृति मे पौराणिक कथाओं के साथ-साथ मंत्र, आरती और पुजा-पाठ का विधि-विधान पूर्वक वर्णन किया गया है। यहाँ पढ़े:-

पातुमामुत्तरे कोणे ऐं ह्नीं ह्नीं शिवकोणके । ह्नस्वजङ्घतालजङ्घः प्रलम्बौष्ठी सदाऽवतु ॥

एताः श्मशानवासिन्यो भीषणा विकृताननाः । पांतु मा सर्वदा देव्यः साधकाभीष्टपूरिकाः ॥

इन्द्रो मां पूर्वतो रक्षेदाग्नेय्या मग्निदेवता । दक्षे यमः सदा पातु नैऋत्यां नैऋतिश्च माम् ॥

वरुणोऽवतु मां पश्चात वायुर्मां वायवेऽवतु । कुबेरश्चोत्तरे पायात् ऐशान्यां तु सदाशिवः ॥

ऊर्ध्व ब्रह्मा सदा पातु अधश्चानन्तदेवता । पूर्वादिदिक् स्थिताः पान्तु वज्राद्याश्चायुधाश्चमाम् ॥

कालिका पातु शिरसि ह्र्दये कालिकाऽवतु । आधारे कालिका पातु पादयोः कालिकाऽवतु ॥

दिक्षु मा कालिका पातु विदिक्षु कालिकाऽवतु । ऊर्ध्व मे कालिका पातु अधश्च कालिकाऽवतु ॥

चर्मासूङ मांस मेदा‍ऽस्थि मज्जा शुक्राणि मेऽवतु । इन्द्रयाणि मनश्चैव देहं सिद्धिं च मेऽवतु ॥

आकेशात् पादपर्यन्तं कालिका मे सदाऽवतु । वियति कालिका पातु पथि नाकालिकाऽवतु ॥

शयने कालिका पातु सर्वकार्येषु कालिका । पुत्रान् मे कालिका पातु धनं मे पातु कालिका ॥

यत्र मे संशयाविष्टास्ता नश्यन्तु शिवाज्ञया । इतीदं कवचं देवि ब्रह्मलोकेऽपि दुर्लभम् ॥

तव प्रीत्या मायाख्यातं गोपनीयं स्वयोनिवत् । तव नाम्नि स्मृते देवि सर्वज्ञं च फलं लभेत् ॥

सर्व पापः क्षयं यान्ति वाञ्छा सर्वत्र सिद्धयति । नाम्नाः शतगुणं स्तोत्रं ध्यानं तस्मात् शताधिकम् ॥

तस्मात् शताधिको मंत्रः कवचं तच्छताधिकम् । शुचिः समाहितों भूत्वा भक्तिं श्रद्धा समन्वितः ॥

संस्थाप्य वामभागेतु शक्तितं स्वामि परायणाम् । रक्तवस्त्र परिघानां शिवमंत्रधरां शुभाम् ॥

या शक्तिः सा महादेवी हररूपश्च साधकः । अन्योऽन्य चिन्तयेद्देवि देवत्वमुपुजायते ॥

शक्तियुक्तो यजेद्देवीं चक्रे वा मनसापि वा । भोगैश्च मधुपर्काद्यै स्ताम्बूलैश्च सुवासितैः ॥

ततस्तु कवचं दिव्यं पठदेकमनाः प्रिये । तस्य सर्वार्थ सिद्धिस्यान्नात्र कार्याविचारणा ॥

इदं रहस्यं परमं परं स्वस्त्ययनं महत् । या सकृत्तुपठद्देवि कवचं देवदुर्लभम् ॥

सर्वयज्ञ फलं तस्य भवेदेव न संशयः । संग्रामे च जयेत् शत्रून् मातङ्गानिव केशरी ॥

नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च । तस्य व्याधि कदाचिन्न दुःखं नास्ति कदाचन ॥

गतिस्तस्यैव सर्वत्र वायुतुल्यः सदा भवेत् । दीर्घायुः कामभोगीशो गुरुभक्ताः सदा भवेत् ॥

अहो कवच माहात्म्यं पठमानस्य नित्यशः । विनापि नयोगेन योगीश समतां व्रजेत् ॥

सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । न शक्नोमि प्रभावं तु कवचस्यास्य वर्णिताम् ॥

दुर्गा कवच

विनियोग:

ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ॠषिः,अनुष्टुप् छन्दः, चामुन्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रातीर्थे सप्तश्तीपाठाङ्गत्वेन जपे विनियोगः

मार्कण्डेय उवाच:

ॐ यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे  ब्रूहि  पितामह॥

ब्रम्हो उवाच:

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं  पुण्यं तच्छृनुष्व महामुने॥

अथ दुर्गा कवच:

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।

तृतीयंचन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।

सप्तमं कालरात्रीति महागौरीति चाष्टमम्॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः।

नामानि ब्रह्मणैव महात्मना ॥

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे।

विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥

न तेषां जायते किंचिदशुभं रणसंकटे।

नापदं तस्य पश्यामि शोकदुःख भयं न हि॥

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते।

येत्वां स्मरन्ति देवेशि रक्षसे तन्न संशयः॥

प्रेतसंस्था तु चामुन्डा वाराही महिषासना।

ऐन्द्री गजासमारुढा वैष्णवी गरुडासना ॥

माहेश्वरी वृषारुढा कौमारी शिखिवाहना।

लक्ष्मीः पद्मासना देवी   पद्महस्ता  हरिप्रिया ॥

श्र्वेतरुपधरा देवी ईश्र्वरी वृषवाहना।

ब्राह्मी     हंससमारुढा    सर्वाभरणभूषिता ॥

इत्येता मतरः सर्वाः सर्वयोगसमन्विताः।

नानाभरणशोभाढ्या     नानारत्नोपशोभिताः॥

दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः।

शङ्खंचक्रंगदां शक्तिं   हलं च मुसलायुधम् ॥

खेटकं तोमरं चैव परशुं पाशमेव च।

कुन्तायुधं त्रिशूलं  च  शार्ङ्गमायुधमुत्तमम् ॥

दैत्यानां देहनाशाय भक्तानामभयाय च।

धरयन्त्यायुधानीत्थं देवानां   च  हिताय वै ॥

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे।

महाबले    महोत्साहे     महाभ्यविनाशिनि॥

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि।

प्राच्यां रक्षतुमामैन्द्री    आग्नेय्यामग्निदेवता॥

दक्षिणेऽवतु वाराही नैॠत्यां खद्‌गधारिणी।

प्रतीच्यां वारुणी रक्षेद्  वायाव्यां मृगावाहिनी॥

उदीच्यां पातु कौबेरी ऐशान्यां शूलधारिणी।

ऊर्ध्वं ब्रह्माणी  मे रक्षेदधस्ताद्  वैष्णवी तथा

एवं दश दिशो रक्षेच्चामुण्डा शववाहना।

जयामे चाग्रतः पातु विजया   पातु  पृष्ठतः ॥

अजिता वामपार्श्वे तु द्क्षिणे चापराजिता।

शिखामुद्‌द्योति निरक्षेदुमा मूर्ध्नि व्यवस्थिता॥

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी।

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च  नासिके॥

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी।

कपौलौ कालिका  रक्षेत्कर्णमूले  तु शांकरी॥

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका।

अधरे चामृतकला  जिह्वायां च सरस्वती॥

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका।

घण्टिकां चित्रघण्टा च  महामाया च  तालुके॥

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला।

ग्रीवायां भद्रकाली     च   पृष्ठवंशे धनुर्धरी॥

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी।

स्कन्धयो:खङ्गिलनी रक्षेद् बाहू मे वज्रधारिणी॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च।

नखाञ्छूलेश्र्वरी   रक्षेत्कक्षौ   रक्षेत्कुलेश्र्वरी॥

स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी।

हृदये ललिता  देवी    उदरे    शूलधारिणी॥

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्र्वरी तथा।

पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥

कट्यां भगवती   रक्षेज्जानुनी विन्ध्यवासिनी।

जङेघ   महाबला     रक्षेत्सर्वकामप्रदायिनी॥

गुल्फयोर्नारसिंही च पादपृष्टे तु तैजसी।

पादाङ्गुलीषु    श्री  रक्षेत्पादाधस्तलवासिनी॥

नखान् दंष्ट्राकराली च केशांश्र्चैवोर्ध्वकेशिनी।

रोमकूपेषु  कौबेरी   त्वचं   वागीश्र्वरी तथा॥

रक्तमज्जावसामांसान्यस्थिमेदांसि    पार्वती।

अन्त्राणि   कालरात्रिश्र्च पित्तं च मुकुटेश्र्वरी॥

पद्मावती पद्मकोशे कफे चूडामणिस्तथा।

ज्वालामुखी  नखज्वालामभेद्या   सर्वसंधिषु॥

शुक्रं ब्रम्हाणी मे रक्षेच्छायां छत्रेश्र्वरी तथा।

अहंकारं   मनो बुध्दिं   रक्षेन्मे धर्मधारिणी॥

प्रणापानौ तथा व्याअनमुदानं च समानकम्।

वज्रहस्ता   च  मे रक्षेत्प्राणं कल्याणशोभना॥

रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी।

सत्त्वं    रजस्तमश्र्चैव  रक्षेन्नारायणी सदा॥

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी।

यशःकीर्तिंचलक्ष्मींच धनं  विद्यां च चक्रिणी॥

गोत्रामिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके।

पुत्रान्    रक्षेन्महालक्ष्मीर्भार्यां  रक्षतुभैरवी॥

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा।

राजद्वारे  महालक्ष्मीर्विजया   सर्वतः स्थिता॥

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु।

तत्सर्वं रक्ष  मे  देवि   जयन्ती पापनाशिनी॥

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः।

कवचेनावृतो नित्यं   यत्र    यत्रैव गच्छति॥

तत्र तत्रार्थलाभश्र्च विजयः सार्वकामिकः।

यं यं चिन्तयते कामं तं तं  प्राप्नोतिनिश्र्चितम्।

परमैश्र्वर्यमतुलं प्राप्स्यते  तले   पुमान्॥

निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः।

त्रैलोक्येतु  भवेत्पूज्यः  कवचेनावृतः  पुमान्॥

इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।

यंपठेत्प्रायतो नित्यं त्रिसन्ध्यम श्रद्धयान्वितः॥

दैवी कला भवेत्तस्य त्रैलोक्येष्वप्राजितः।

जीवेद्      वर्षशतं   साग्रमपमृत्युविवर्जितः॥

नश्यन्ति व्याधयः सर्वे लूताविस्फ़ोटकादयः।

स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम्॥

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भुतले।

भूचराः   खेचराश्र्चेव    जलजाश्र्चोपदेशिकाः॥

सहजाः कुलजा माला डाकिनी शाकिनी तथा।

अन्तरिक्षचरा  घोरा   डाकिन्यश्र्च महाबलाः॥

ग्रहभूतपिशाचाश्च्च यक्षगन्धर्वराक्षसाः।

ब्रम्हराक्षसवेतालाः   कूष्माण्डा    भैरवादयः॥

नश्यति दर्शनात्तस्य कवचे हृदि संस्थिते।

मानोन्नतिर्भवेद्   राज्ञस्तेजोवृद्धिकरं    परम् ॥

यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले।

जपेत्सप्तशतीं  चण्डीं   कृत्वा तु कवचं पुरा॥

यावभ्दूमण्डलं धत्ते सशैलवनकाननम्।

तावत्तिष्ठति मेदिन्यां   संततिः पुत्रापौत्रिकी॥

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम्।

प्राप्नोति  पुरुषो  नित्यं   महामायाप्रसादतः॥

लभते परम्म   रुपं  शिवेन   सह   मोदते॥

इति श्री दुर्गा कवच सम्पूर्णं

धूमावती कवच

श्रीपार्वत्युवाच

धूमावत्यर्चनं शम्भो श्रुतं विस्तरतोमया ।

कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥

श्रीभैरव उवाच:

शृणुदेवि परं गुह्यं न प्रकाश्यं कलौयुगे ।

कवचं श्रीधूमावत्याश्शत्रुनिग्रहकारकम् ॥

ब्रह्माद्यादेवि सततं यद्वशादरिघातिनः ।

योगिनोभवछत्रुघ्ना यस्याध्यान प्रभावतः ॥

विनियोग:

ॐ अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः अनुष्टुप्छन्दः श्रीधूमावती देवता धूं बीजम् स्वाहाशक्तिः धूमावती कीलकम् शत्रुहनने पाठे विनियोगः ।

कवचम्

ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदावतु ।

धूमा नेत्रयुगं पातु वती कर्णौ सदावतु ॥

दीर्घा तूदरमध्ये तु नाभिं मे मलिनाम्बरा ।

शूर्पहस्ता पातु गुह्यं रूक्षारक्षतु जानुनी ॥

मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् ।

सर्वं विद्यावतु कण्ठं विवर्णा बाहुयुग्मकम् ॥

चञ्चला हृदयं पातु दुष्टा पार्श्वं सदावतु ।

धूमहस्ता सदा पातु पादौ पातु भयावहा ॥

प्रवृद्धरोमा तु भृशंकुटिला कुटिलेक्षणा ।

क्षृत्पिपासार्दिता देवी भयदा कलहप्रिया ॥

सर्वाङ्गं पातु मे देवी सर्वशत्रु विनाशिनी ।

इति ते कवचं पुण्यं कथितं भुवि दुर्लभम् ॥

न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे ।

पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः ।

दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥

॥ इति भैरवी भैरव संवादे धूमावती तत्त्वे धूमावती कवचं सम्पूर्णम् ॥

नवग्रह कवच

श्री गणेशाय नम:

विनियोग: सीधे हाथ में जल लेकर विनियोग  करे-

ॐ अस्य जगन्मंगल-कारक ग्रह- कवचस्य श्री भैरव ऋषि: अनुष्टुप छन्द: श्री सूर्यादि-ग्रहा: देवता: सर्व-कामार्थ-संसिद्धयै पठै विनियोग

तंत्रोक्त नवग्रह कवच:

ॐ ह्रीं ह्रीं सौ:में शिर: पातु श्रीसूर्य ग्रह-पति:
ॐ घौं सौं औं मे मुखं पातु श्री चन्द्रो ग्रहराजक:
ॐ ह्रां ह्रीं ह्रां स: करौ पातु ग्रह-सेनापति: कुज: पायादथ
ॐ ह्रौं ह्रौं सौं: पदौज्ञो नृपबालक:
ॐ त्रौं त्रौं त्रौं स: कटिं पातु पातुपायादमर- पूजित:
ॐ ह्रों ह्रीं सौ: दैत्य-पूज्यो हृदयं परिरक्षतु
ॐ शौं शौं स: पातु नाभिं में ग्रह प्रेष्यं शनैश्चर:
ॐ छौं छौं स: कण्ठ देशं श्री राहुदेव मर्दक:
ॐ फौं फां फौं स: शिखो पातु सर्वांगमभितोवतु
ग्रहाशतचैते भोग देहा नित्यास्तु स्फुटित- ग्रहा:
एतदशांश – सम्भूता: पान्तु नित्यं तु दुर्जनात्
अक्षयं कवचं पुण्यं सूर्यादि-ग्रह-देवतम्
पठेद्वा पाठयेद् वापि धारयेद् यो जन: शुचि:
स सिद्धिं प्रप्युयादिष्टां दुर्लभां त्रिदशैसतु याम्
तव स्नेहवशादुक्तं जगमंगल कारकम्
ग्रहयन्त्रान्वितंकृत्वाभीष्टमक्षयमाप्नुयात
नवग्रह कवच सम्पूर्णं

नारायण कवच

राजोवाच

यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान्।

क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ।।1।।

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्।

यथाssततायिनः शत्रून् येन गुप्तोsजयन्मृधे ।।2।।

श्रीशुक उवाच

वृतः पुरोहितोस्त्वाष्ट्रो महेन्द्रायानुपृच्छते।

नारायणाख्यं वर्माह तदिहैकमनाः शृणु।।3।।

विश्वरूप उवाचधौताङ्घ्रिपाणिराचम्य सपवित्र उदङ् मुखः।

कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः।।4।।

नारायणमयं वर्म संनह्येद् भय आगते।

पादयोर्जानुनोरूर्वोरूदरे हृद्यथोरसि।।5।।

मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत्।

ॐ नमो नारायणायेति विपर्ययमथापि वा।।6।।

करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया।

प्रणवादियकारन्तमङ्गुल्यङ्गुष्ठपर्वसु।।7।।

न्यसेद् हृदय ओङ्कारं विकारमनु मूर्धनि।

षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्।।8।।

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु।

मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः।।9।।

सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत्।

ॐ विष्णवे नम इति।।10।।

आत्मानं परमं ध्यायेद ध्येयं षट्शक्तिभिर्युतम्।

विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत।।11।।

ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे।

दरारिचर्मासिगदेषुचापाशान् दधानोsष्टगुणोsष्टबाहुः।।12।।

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात्।

स्थलेषु मायावटुवामनोsव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः।।13।।

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयुथपारिः।

विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः।।14।।

रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः।

रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोsव्याद् भरताग्रजोsस्मान्।।15।।

मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात्।

दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात्।।16।।

सनत्कुमारो वतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात्।

देवर्षिवर्यः पुरूषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात्।।17।।

धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा।

यज्ञश्च लोकादवताज्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः।।18।।

द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात्।

कल्किः कले कालमलात् प्रपातु धर्मावनायोरूकृतावतारः।।19।।

मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः।

नारायण प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः।।20।।

देवोsपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम्।

दोषे हृषीकेश उतार्धरात्रे निशीथ एकोsवतु पद्मनाभः।।21।।

श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः।

दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः।।22।।

चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम्।

दन्दग्धि दन्दग्ध्यरिसैन्यमासु कक्षं यथा वातसखो हुताशः।।23।।

गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि।

कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन्।।24।।

त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन्।

दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन्।।25।।

त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि।

चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम्।।26।।

यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च।

सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा।।27।।

सर्वाण्येतानि भगन्नामरूपास्त्रकीर्तनात्।

प्रयान्तु संक्षयं सद्यो ये नः श्रेयः प्रतीपकाः।।28।।

गरूड़ो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः।

रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः।।29।।

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः।

बुद्धिन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः।।30।।

यथा हि भगवानेव वस्तुतः सद्सच्च यत्।

सत्यनानेन नः सर्वे यान्तु नाशमुपाद्रवाः।।31।।

यथैकात्म्यानुभावानां विकल्परहितः स्वयम्।

भूषणायुद्धलिङ्गाख्या धत्ते शक्तीः स्वमायया।।32।।

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः।

पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः।।33।।

विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः।

प्रहापयँल्लोकभयं स्वनेन ग्रस्तसमस्ततेजाः।।34।।

मघवन्निदमाख्यातं वर्म नारयणात्मकम्।

विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान्।।35।।

एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा।

पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते।।36।।

न कुतश्चित भयं तस्य विद्यां धारयतो भवेत्।

राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित्।।37।।

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः।

योगधारणया स्वाङ्गं जहौ स मरूधन्वनि।।38।।

तस्योपरि विमानेन गन्धर्वपतिरेकदा।

ययौ चित्ररथः स्त्रीर्भिवृतो यत्र द्विजक्षयः।।39।।

गगनान्न्यपतत् सद्यः सविमानो ह्यवाक् शिराः।

स वालखिल्यवचनादस्थीन्यादाय विस्मितः।

प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात्।।40।।

य इदं शृणुयात् काले यो धारयति चादृतः।

तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात्।।41।।

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः।

त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्यऽमृधेसुरान्।।42।।

नारायण हृदय कवच

भगवान् लक्ष्मी-नारायण की प्रसन्नता के लिए “लक्ष्मी-हृदय” के साथ इसका पाठ करने से धन-धान्य व ऐश्वर्य की वृद्धि होती है।

आचम्य प्राणानायम्य देशकालौ स्मृत्वा। अस्मद्गुर्वन्तर्गत – श्रीभारतीरमणमुख्यप्राणान्तर्गत – श्रीलक्ष्मीनारायणप्रेरणया श्रीलक्ष्मीनारायणप्रीत्यर्थं ममाभीष्टसिद्ध्यर्थं सङ्कलीकरणरीत्या सम्पुटीकरणरीत्या वा नारायणहृदयस्य सकृदावर्तनं करिष्ये ।

सीधे हाथ में जल लेकर विनियोग पढ़कर जल भूमि पर छोड़ दे।

विनियोगः- ॐ अस्य श्रीनारायण-हृदय-स्तोत्र-मन्त्रस्य भार्गव ऋषिः, अनुष्टुप छन्दः, श्रीलक्ष्मीनारायणो देवता, ॐ बीजं, नमः शक्तिं, नारायणायेति कीलकं, श्रीलक्ष्मीनारायण प्रीत्यर्थे पाठे विनियोगः ।

ऋष्यादि-न्यासः

ॐ भार्गव ऋषये नमः शिरसि ।

अनुष्टुप् छन्दसे नमः मुखे ।

श्रीलक्ष्मीनारायणदेवतायै नमः हृदि ।

ॐ बीजाय नमः गुह्ये ।

नमः शक्त्यै नमः पादयोः ।

नारायणायेति कीलकाय नमः नाभौ ।

श्रीलक्ष्मीनारायणप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः

ॐ नारायणः परं ज्योतिः अङ्गुष्ठाभ्यां नमः ।

ॐ नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः ।

ॐ नारायणः परोदेव इति मध्यमाभ्यां नमः ।

ॐ नारायणः परो ध्यायेति अनामिकाभ्यां नमः ।

ॐ नारायणः परो धामेति कनिष्ठिकाभ्यां नमः ।

ॐ नारायणः परो धर्म इति करतल-कर-पृष्ठाभ्याम् नमः ।

हृदयादि-न्यासः

ॐ नारायणः परं ज्योतिः हृदयाय नमः । ॐ नारायणः परं ब्रह्मेति शिरसे स्वाहा । ॐ नारायणः परोदेव इति शिखायै वषट् । ॐ नारायणः परो ध्यायेति कवचाय हुं । ॐ नारायणः परो धामेति नेत्र-त्रयाय वौषट् । ॐ नारायणः परो धर्म इति अस्त्राय फट् ।

दिग् रक्षणः

ॐ नमः सुदर्शनायास्त्राय हुं फट् बध्नामि नमश्चक्राय स्वाहा ।

इस मन्त्र से तीन ताली देकर दशों दिशाओं में दिग्बंधन करें ।

अथ ध्यानम्:

उद्यद्भास्वत्समाभासः चिदानन्दैकदेहवान् ।

शङ्खचक्रगदापद्मधरो ध्येयोऽहमीश्वरः ।।1।।

लक्ष्मीधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः ।

ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि ।।2।।

सेव्यमानोऽधिकं भक्त्या नित्यनिश्शेषशक्तिमान् ।

मूर्तयोऽष्टावपि ध्येयाश्चक्रशङ्खवराभयैः ।।3।।

उद्यदादित्यसङ्काशं पीतवाससमच्युतम् ।

शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ।।4।।

।। “ॐ नमो नारायणाय” इति मन्त्रजपं (108 बार) कृत्वा ।।

नारायणास्त्र कवच

हरिः

 ॐ नमो भगवते श्रीनारायणाय नमो नारायणाय विश्वमूर्तये नमः श्री पुरुषोत्तमाय पुष्पदृष्टिं प्रत्यक्षं वा परोक्षं अजीर्णं पञ्चविषूचिकां हन हन ऐकाहिकं द्वयाहिकं त्र्याहिकं चातुर्थिकं ज्वरं नाशय नाशयचतुरशितिवातानष्टादशकुष्ठान् अष्टादशक्षय रोगान् हन हन सर्वदोषान् भंजय भंजय तत्सर्वं नाशय नाशय आकर्षय आकर्षय शत्रून् शत्रून् मारय मारय उच्चाटयोच्चाटय विद्वेषय विदे्वेषय स्तंभय स्तंभय निवारय निवारय विघ्नैर्हन विघ्नैर्हन दह दह मथ मथ विध्वंसय विध्वंसय चक्रं गृहीत्वा शीघ्रमागच्छागच्छ चक्रेण हत्वा परविद्यां छेदय छेदय भेदय भेदय चतुःशीतानि विस्फोटय विस्फोटय अर्शवातशूलदृष्टि सर्पसिंहव्याघ्र द्विपदचतुष्पद पद बाह्यान्दिवि भुव्यन्तरिक्षे अन्येऽपि केचित् तान्द्वेषकान्सर्वान् हन हन विद्युन्मेघनदी पर्वताटवीसर्वस्थान रात्रिदिनपथचौरान् वशं कुरु कुरु हरिः ॐ नमो भगवते ह्रीं हुं फट् स्वाहा ठः ठं ठं ठः नमः ।।

।। विधानम् ।।

एषा विद्या महानाम्नी पुरा दत्ता मरुत्वते ।

असुराञ्जितवान्सर्वाञ्च्छ क्रस्तु बलदानवान् ।। 1।।

यः पुमान्पठते भक्त्या वैष्णवो नियतात्मना ।

तस्य सर्वाणि सिद्धयन्ति यच्च दृष्टिगतं विषम् ।। 2।।

अन्यदेहविषं चैव न देहे संक्रमेद्ध्रुवम् ।

संग्रामे धारयत्यङ्गे शत्रून्वै जयते क्षणात् ।। 3।।

अतः सद्यो जयस्तस्य विघ्नस्तस्य न जायते ।

किमत्र बहुनोक्तेन सर्वसौभाग्यसंपदः ।। 4।।

लभते नात्र संदेहो नान्यथा तु भवेदिति ।

गृहीतो यदि वा येन बलिना विविधैरपि ।। 5।।

शतिं समुष्णतां याति चोष्णं शीतलतां व्रजेत् ।

अन्यथां न भवेद्विद्यां यः पठेत्कथितां मया ।। 6।।

भूर्जपत्रे लिखेन्मंत्रं गोरोचनजलेन च ।

इमां विद्यां स्वके बद्धा सर्वरक्षां करोतु मे ।। 7।।

पुरुषस्याथवा स्त्रीणां हस्ते बद्धा विचेक्षणः ।

विद्रवंति हि विघ्नाश्च न भवंति कदाचनः ।। 8।।

न भयं तस्य कुर्वंति गगने भास्करादयः ।

भूतप्रेतपिशाचाश्च ग्रामग्राही तु डाकिनी ।। 9।।

शाकिनीषु महाघोरा वेतालाश्च महाबलाः ।

राक्षसाश्च महारौद्रा दानवा बलिनो हि ये ।। 10।।

असुराश्च सुराश्चैव अष्टयोनिश्च देवता ।

सर्वत्र स्तम्भिता तिष्ठेन्मन्त्रोच्चारणमात्रतः ।। 11।।

सर्वहत्याः प्रणश्यंति सर्व फलानि नित्यशः ।

सर्वे रोगा विनश्यंति विघ्नस्तस्य न बाधते ।। 12।।

उच्चाटनेऽपराह्णे तु संध्यायां मारणे तथा ।

शान्तिके चार्धरात्रे तु ततोऽर्थः सर्वकामिकः ।। 13।।

इदं मन्त्ररहस्यं च नारायणास्त्रमेव च ।

त्रिकालं जपते नित्यं जयं प्राप्नोति मानवः ।। 14।।

आयुरारोग्यमैश्वर्यं ज्ञानं विद्यां पराक्रमः ।

चिंतितार्थ सुखप्राप्तिं लभते नात्र संशयः ।। 15।।

।। इति नारायणास्त्र कवच ।।

निखिलेश्वरानन्द कवच

शिरः सिद्धेश्वरः पातु ललाटं च परात्परः ।
नेत्रे निखिलेश्वरानन्द नासिका नरकान्तकः ॥ 1॥
कर्णौ कालात्मकः पातु मुखं मन्त्रेश्वरस्तथा ।
कण्ठं रक्षतु वागीशः भुजौ च भुवनेश्वरः ॥ 2॥
स्कन्धौ कामेश्वरः पातु हृदयं ब्रह्मवर्चसः ।
नाभिं नारायणो रक्षेत् उरुं ऊर्जस्वलोऽपि वै ॥ 3॥
जानुनि सच्चिदानन्दः पातु पादौ शिवात्मकः ।
गुह्यं लयात्मकः पायात् चित्तंचिन्तापहारकः ॥ 4॥
मदनेशः मनः पातु पृष्ठं पूर्णप्रदायकः ।
पूर्वं रक्षतु तंत्रेशः यंत्रेशः वारुणीँ तथा ॥ 5॥
उत्तरं श्रीधरः रक्षेत् दक्षिणं दक्षिणेश्वर ।
पातालं पातु सर्वज्ञः ऊर्ध्वं मे प्राण संज्ञकः ॥ 6॥
कवचेनावृतो यस्तु यत्र कुत्रापित गच्छति ।
तत्र सर्वत्र लाभः स्यात् किंचिदत्र न संशयः ॥ 7॥
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितं ।
धनवान् बलवान् लोके जायते समुपासकः ॥ 8॥
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ।
नश्यन्ति सर्वविघ्नानि दर्शानात् कवचावृतम् ॥ 9॥
य इदं कवचं पुण्यं प्रातः पठति नित्यशः ।
सिद्धाश्रम पदारूढः ब्रह्मभावेन भूयते ॥ 10॥

नृसिंह अष्टक कवच

इंदुकोटितेज-करुणासिंधु-भक्तवत्सलम् । नंदनात्रिसूनुदत्त, इंदिराक्ष-श्रीगुरुम् ।

गंधमाल्यअक्षतादिवृंददेववंदितम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥1॥

मोहपाशअंधकारछायदूरभास्करम् । आयताक्ष, पाहि श्रियावल्लभेशनायकम् ।

सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥2॥

चित्तजादिवर्गषट्कमत्तवारणांकुशम् । तत्त्वसारशोभितात्मदत्त-श्रियावल्लभम् ।

उत्तमावतार-भूतकर्तृ-भक्तवत्सलम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥3॥

व्योमवायुतेज-आपभूमिकर्तृमीश्वरम् । कामक्रोधमोहरहितसोमसूर्यलोचनम् ।

कामितार्थदातृभक्तकामधेनु-श्रीगुरुम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥4॥

पुंडरीक-आयताक्ष, कुंडलेंदुतेजसम् । चंडुदुरितखंडनार्थ – दंडधारि-श्रीगुरुम् ।

मंडलीकमौलि-मार्तंडभासिताननं । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥5॥

वेदशास्त्रस्तुत्यपाद, आदिमूर्तिश्रीगुरुम् । नादबिंदुकलातीत-कल्पपादसेव्ययम् ।

सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥6॥

अष्टयोगतत्त्वनिष्ठ, तुष्टज्ञानवारिधिम । कृष्णावेणितीरवासपंचनदीसंगमम् ।

कष्टदैन्यदूरिभक्ततुष्टकाम्यदायकम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥7॥

नारसिंहसरस्वती-नामअष्टमौक्तिकम् । हारकृत्यशारदेन गंगाधर आत्मजम् ।

धारणीकदेवदीक्षगुरुमूर्तितोषितम् । परमात्मानंदश्रियापुत्रपौत्रदायकम् ॥8॥

नारसिंहसरस्वतीय-अष्टकं च यः पठेत् । घोरसंसारसिंधुतारणाख्यसाधनम् ।

सारज्ञानदीर्घआयुरारोग्यादिसंपदम् । चारुवर्गकाम्यलाभ, वारंवारं यज्जपेत ॥9॥

कंडेनिंदु भक्तजनराभाग्यनिधियभूमंडलदोळगेनारसिंहसरस्वतीया ॥10॥

कंडेनिंदुउंडेनिंदुवारिजादोळपादवाराजाकमळांदोळदंतध्यानिसी ॥11॥

सुखसुवाजनारुगळा । भोरगेलान्नेकामिफळफळा । नित्यसकळाहूवा । धीनारसिंहसरस्वतीवरानना ॥12॥

वाक्यकरुणानेनसुवा । जगदोळगदंडकमंडलुधराशी । सगुणानेनीशीसुजनरिगे । वगादुनीवासश्रीगुरुयतिवरान्न ॥13॥

धारगेगाणगापुरडोलकेलाशीहरी । दासिसोनुनादयाकरुणादली । वरावीतुंगमुनाहोरावनुअनुबिना ।नारसिंहसरस्वतीगुरुचरणवन्न ॥14॥

राजगखंडीकंडीनेननमा । इंदुकडेनेनमा । मंडलादोळगेयती कुलराये । चंद्रमन्ना ॥15॥

तत्त्वबोधायाउपनिषदतत्त्वचरित नाव्यक्तवादपरब्रह्ममूर्तियनायना । शेषशयनापरवेशकायना । लेशकृपयनीवनेवभवासौपालकाना ॥16॥

गंधपरिमळादिशोभितानंदासरसाछंदालयोगेंद्रेगोपीवृंदवल्लभना ॥17॥

करीयनीयानांपापगुरु । नवरसगुसायन्नीं । नरसिंहसरस्वत्यन्ना । नादपुरुषवादना ॥18॥

नृसिंह कवच

नृसिंह कवच का का पाठ मंगलवार, गुरुवार या शनिवार से प्रारम्भ करें, जो भी कार्य हो उसका संकल्प कर नित्य करें जब आपका मनवांछित कार्य पूर्ण हो जाए तब नरसिंह-भैरव के लिए सवासेर का रोट और माता के लिए सवासेर की कडाही प्रशाद करें।

मूल पाठ

ॐ नमोनृसिंहाय सर्व दुष्ट विनाशनाय सर्वंजन मोहनाय सर्वराज्यवश्यं कुरु कुरु स्वाहा।

ॐ नमो नृसिंहाय नृसिंहराजाय नरकेशाय नमो नमस्ते।

ॐ नमः कालाय काल द्रष्ट्राय कराल वदनाय च।

ॐ उग्राय उग्र वीराय उग्र विकटाय उग्र वज्राय वज्र देहिने रुद्राय रुद्र घोराय भद्राय भद्रकारिणे ॐ ज्रीं ह्रीं नृसिंहाय नमः स्वाहा !!

ॐ नमो नृसिंहाय कपिलाय कपिल जटाय अमोघवाचाय सत्यं सत्यं व्रतं महोग्र प्रचण्ड रुपाय।

ॐ ह्रां ह्रीं ह्रौं ॐ ह्रुं ह्रुं ह्रुं ॐ क्ष्रां क्ष्रीं क्ष्रौं फट् स्वाहा।

ॐ नमो नृसिंहाय कपिल जटाय ममः सर्व रोगान् बन्ध बन्ध, सर्व ग्रहान बन्ध बन्ध, सर्व दोषादीनां बन्ध बन्ध, सर्व वृश्चिकादिनां विषं बन्ध बन्ध, सर्व भूत प्रेत, पिशाच, डाकिनी शाकिनी, यंत्र मंत्रादीन् बन्ध बन्ध, कीलय कीलय चूर्णय चूर्णय, मर्दय मर्दय, ऐं ऐं एहि एहि, मम येये विरोधिन्स्तान् सर्वान् सर्वतो हन हन, दह दह, मथ मथ, पच पच, चक्रेण, गदा, वज्रेण भष्मी कुरु कुरु स्वाहा।

ॐ क्लीं श्रीं ह्रीं ह्रीं क्ष्रीं क्ष्रीं क्ष्रौं नृसिंहाय नमः स्वाहा।

ॐ आं ह्रीं क्ष्रौं क्रौं ह्रुं फट्।

ॐ नमो भगवते सुदर्शन नृसिंहाय मम विजय रुपे कार्ये ज्वल ज्वल प्रज्वल प्रज्वल असाध्यमेनकार्य शीघ्रं साधय साधय एनं सर्व प्रतिबन्धकेभ्यः सर्वतो रक्ष रक्ष हुं फट् स्वाहा।

ॐ क्षौं नमो भगवते नृसिंहाय एतद्दोषं प्रचण्ड चक्रेण जहि जहि स्वाहा।

ॐ नमो भगवते महानृसिंहाय कराल वदन दंष्ट्राय मम विघ्नान् पच पच स्वाहा।

ॐ नमो नृसिंहाय हिरण्यकश्यप वक्षस्थल विदारणाय त्रिभुवन व्यापकाय भूत-प्रेत पिशाच डाकिनी-शाकिनी कालनोन्मूलनाय मम शरीरं स्तम्भोद्भव समस्त दोषान् हन हन, शर शर, चल चल, कम्पय कम्पय, मथ मथ, हुं फट् ठः ठः।

ॐ नमो भगवते भो भो सुदर्शन नृसिंह ॐ आं ह्रीं क्रौं क्ष्रौं हुं फट्।

ॐ सहस्त्रार मम अंग वर्तमान ममुक रोगं दारय दारय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु ह्रां ह्रीं ह्रुं ह्रैं ह्रौं ह्रुं ह्रुं फट् मम शत्रु हन हन द्विष द्विष तद पचयं कुरु कुरु मम सर्वार्थं साधय साधय।

ॐ नमो भगवते नृसिंहाय ॐ क्ष्रौं क्रौं आं ह्रीं क्लीं श्रीं रां स्फ्रें ब्लुं यं रं लं वं षं स्त्रां हुं फट् स्वाहा।

ॐ नमः भगवते नृसिंहाय नमस्तेजस्तेजसे अविराभिर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रंधय रंधय तमो ग्रस ग्रस ॐ स्वाहा।

अभयमभयात्मनि भूयिष्ठाः ॐ क्षौम्।

ॐ नमो भगवते तुभ्य पुरुषाय महात्मने हरिंऽद्भुत सिंहाय ब्रह्मणे परमात्मने।

ॐ उग्रं उग्रं महाविष्णुं सकलाधारं सर्वतोमुखम्।

नृसिंह भीषणं भद्रं मृत्युं मृत्युं नमाम्यहम्।

नृसिंह विजय कवच

श्री नारद उवाच

इन्द्रादि-देव-वृन्देश ! ईश्वर, जगत्-पते ! महा-विष्णोर्नृसिंहस्य, कवचं ब्रूहि मे प्रभो !

यस्य प्रपठनाद् विद्वांस्त्रैलोक्य-विजयी भवेत् ॥1

॥ श्री प्रजापतिरुवाच ॥

श्रृणु नारद ! वक्ष्यामि, पुत्र-श्रेष्ठ, तपोधन ! कवचं नृसिंहस्य तु, त्रैलोक्य-विजयाभिधम् ॥

यस्य पठनाद् वाग्मी, त्रैलोक्य-विजयी भवेत् । स्रष्टाऽहं जगतां वत्स ! पठनाद् धारणाद् यतः ॥

लक्ष्मीर्जगत्-त्रयं पाति, संहर्ता च महेश्वरः । पठनाद् धारणाद् देवाः बभूवुश्च दिगीश्वराः ॥

ब्रह्म-मन्त्र-मयं वक्ष्ये, भ्रान्त्यादि-विनिवारकं । यस्य प्रसादाद् दुर्वासास्त्रैलोक्य-विजयी भवेत् ॥

पठनाद् धारणाद् यस्य, शास्ता च क्रोध-भैरवः ॥

त्रैलोक्य-विजयस्यास्य, कवचस्य प्रजापतिः । ऋषिश्छन्दश्च गायत्री, नृसिंहो देवता विभुः ।

क्ष्रौं वीजं, हुं शक्तिः, फट् कीलकं, ममाभीष्ट-सिद्धयर्थे जपे विनियोगः ॥

सीधे हाथ में जल लेकर विनियोग पढ़कर जल भूमि पर छोड़ दे।

विनियोगः-

ॐ अस्य त्रैलोक्य-विजय-नाम श्रीनृसिंह-कवचस्य श्रीप्रजापतिः ऋषिः, गायत्री छन्दः, श्रीनृसिंहः देवता, क्ष्रौं वीजं, हुं शक्तिः, फट् कीलकं ममाभीष्ट सिद्धयर्थे जपे विनियोगः ।

ऋष्यादि-न्यासः-

श्रीप्रजापति-ऋषये नमः शिरसि,

गायत्री-छन्दसे नमः मुखे,

श्रीनृसिंह-देवतायै नमः

हृदि, क्ष्रौं वीजाय नमः गुह्ये,

हुं शक्तये नमः नाभौ,

फट् कीलकाय नमः पादयोः

ममाभीष्ट सिद्धयर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

॥ मूल-पाठ ॥

ॐ उग्र-वीरं महा-विष्णुं, ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं, मृत्यु-मृत्युं नमाम्यहम् ॥1॥

क्ष्रौं वीजं मे शिरः पातु, चन्द्र-वर्णो महा-मनुः । कण्ठं पातु ध्रुवं क्ष्रौं हृद्, भगवते चक्षुषी मे ।नरसिंहाय च ज्वाला-मालिने पातु कर्णकम् ॥2॥

दीप्त-दंष्ट्राय च तथाऽग्नि-नेत्राय च नासिकां । सर्व-रक्षोघ्नाय तथा, सर्व-भूत-हिताय च ॥3॥

सर्व-ज्वर-विनाशाय, दह-दह पद-द्वयम् । रक्ष-रक्ष वर्म-मन्त्रः, स्वाहा पातु मुखं मम ॥4॥

ॐ रामचन्द्राय नमः, पातु च हृदयं मम । क्लीं पायात् पार्श्व-युग्मं च, तारो नमः पदं ततः ॥5॥

नारायणाय नाभिं च, आं ह्रीं क्रों क्ष्रौं चैव हुं फट् । षडक्षरः कटिं पातु, ॐ नमो भगवतेऽयम् ॥6॥

वासुदेवाय च पृष्ठं, क्लीं कृष्णाय ऊरु-द्वयं । क्लीं कृष्णाय सदा पातु, जानुनी च मनूत्तमः ॥7॥

क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात् पद-द्वयं । क्ष्रौं नृसिंहाय क्ष्रौं चैव, सर्वाङ्गे मे सदाऽवतु ॥8॥

॥ फल-श्रुति ॥

इति ते कथितं वत्स ! सर्व-मन्त्रौघ-विग्रहं । तव स्नेहान्मया ख्यातं, प्रवक्तव्यं न कस्यचित् ॥

गुरु-पूजां विधायाथ, गृह्णीयात् कवचं ततः । सर्व-पुण्य-युतो भूत्वा, सर्व-सिद्धि-युतो भवेत् ॥

शतमष्टोत्तरं चास्य, पुरश्चर्या-विधिः स्मृता । हवनादीन् दशांशेन, कृत्वा साधक-सत्तमः ॥

ततस्तु सिद्ध-कवचः, पुण्यात्मा मदनोपमः । स्पर्द्धामूद्धूय भवने, लक्ष्मीर्वाणि वसेत ततः ॥

पुष्पाञ्जल्यष्टकं दत्त्वा, मूलेनैव पठेत् सकृत् । अपि वर्ष-सहस्राणां, पूजायां फलमाप्नुयात् ॥

भूर्जे विलिख्य गुटिकां, स्वर्णस्थां धारयेद् यदि । कण्ठे वा दक्षिणे बाहौ, नरसिंहो भवेत् स्वयम् ॥

योषिद्-वाम-भुजे चैव, पुरुषो दक्षिणे-करे । बिभृयात् कवचं पुण्यं, सर्व-सिद्धि-युतो भवेत् ॥

काक-वन्ध्या च या नारी, मृत-वत्सा च या भवेत् । जन्म-वन्ध्या नष्ट-पुत्रा, बहु-पुत्र-वती भवेत् ॥

कवचस्य प्रसादेन, जीवन्मुक्तो भवेन्नरः । त्रैलोक्यं क्षोभयेत् सदा, त्रैलोक्य-विजयी भवेत् ॥

भूत-प्रेत-पिशाचाश्च, राक्षसा दानवाश्च ये । तं दृष्ट्वा प्रपलायन्ते, देशाद् देशान्तरे ध्रुवम् ॥

यस्मिन् गृहे च कवचं, ग्रामे वा यदि तिष्ठति । तद्-देशं तु परित्यज्य, प्रयान्ति ह्यति-दूरतः ॥

॥ इति ब्रह्म-संहितायां त्रैलोक्य-विजयं नाम नृसिंह-कवचम् ॥

‘पूर्व-पीठिका’ और ‘फल-श्रुति’ के अनुसार उक्त ‘श्रीनृसिंह कवच’ का १०८ पाठ करने से इसका ‘पुरश्चरण’ होता है। दशांश अर्थात् ११ पाठ द्वारा ‘हवन’ और एक-एक पाठ द्वारा ‘तर्पण’, ‘मार्जन’ कर एक ब्राह्मण को भोजन कराने से यह ‘कवच-स्तोत्र’ सिद्ध होता है। तब इसका प्रयोग कर विविध प्रकार की कामनाओं की पूर्ति की जा सकती है । कामनाओं का उल्लेख ‘पूर्व-पीठिका’ और ‘फल-श्रुति’ में किया गया है।

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

पितृ कवच (पितृ-सूक्तम्)

धार्मिक ग्रंथो के अनुसार पितृ-सूक्तम् पितृदोष निवारण में अत्यंत चमत्कारी मंत्र पाठ है। यह पाठ शुभ फल प्रदान करने वाला सभी के लिए लाभदायी है। अमावस्या हो या पूर्णिमा अथवा श्राद्ध पक्ष के दिनों में संध्या के समय तेल का दीपक जलाकर पितृ-सूक्तम् का पाठ करने से पितृदोष की शांति होती है और सर्वबाधा दूर होकर उन्नति की प्राप्ति होती है।

जो व्यक्ति जीवन में बहुत परेशानी का अनुभव करते हैं उनको तो यह पाठ प्रतिदिन अवश्‍य पढ़ना चाहिए। इससे उनके जीवन के समस्त संकट दूर होकर उन्हें पितरों का आशिर्वाद मिलता है…।

॥ पितृ-सूक्तम् ॥

उदिताम् अवर उत्परास उन्मध्यमाः पितरः सोम्यासः।
असुम् यऽ ईयुर-वृका ॠतज्ञास्ते नो ऽवन्तु पितरो हवेषु॥1॥

अंगिरसो नः पितरो नवग्वा अथर्वनो भृगवः सोम्यासः।
तेषां वयम् सुमतो यज्ञियानाम् अपि भद्रे सौमनसे स्याम्॥2॥

ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः।
तेभिर यमः सरराणो हवीष्य उशन्न उशद्भिः प्रतिकामम् अत्तु॥3॥

त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठम् अनु नेषि पंथाम्।
तव प्रणीती पितरो न देवेषु रत्नम् अभजन्त धीराः॥4॥

त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः।
वन्वन् अवातः परिधीन् ऽरपोर्णु वीरेभिः अश्वैः मघवा भवा नः॥5॥

त्वं सोम पितृभिः संविदानो ऽनु द्यावा-पृथिवीऽ आ ततन्थ।
तस्मै तऽ इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम्॥6॥

बर्हिषदः पितरः ऊत्य-र्वागिमा वो हव्या चकृमा जुषध्वम्।
तऽ आगत अवसा शन्तमे नाथा नः शंयोर ऽरपो दधात॥7॥

आहं पितृन्त् सुविदत्रान् ऽअवित्सि नपातं च विक्रमणं च विष्णोः।
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वः तऽ इहागमिष्ठाः॥8॥

उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु।
तऽ आ गमन्तु तऽ इह श्रुवन्तु अधि ब्रुवन्तु ते ऽवन्तु-अस्मान्॥9॥

आ यन्तु नः पितरः सोम्यासो ऽग्निष्वात्ताः पथिभि-र्देवयानैः।
अस्मिन् यज्ञे स्वधया मदन्तो ऽधि ब्रुवन्तु ते ऽवन्तु-अस्मान्॥10॥

अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सु-प्रणीतयः।
अत्ता हवींषि प्रयतानि बर्हिष्य-था रयिम् सर्व-वीरं दधातन॥11॥

येऽ अग्निष्वात्ता येऽ अनग्निष्वात्ता मध्ये दिवः स्वधया मादयन्ते।
तेभ्यः स्वराड-सुनीतिम् एताम् यथा-वशं तन्वं कल्पयाति॥12॥

अग्निष्वात्तान् ॠतुमतो हवामहे नाराशं-से सोमपीथं यऽ आशुः।
ते नो विप्रासः सुहवा भवन्तु वयं स्याम पतयो रयीणाम्॥13॥

आच्या जानु दक्षिणतो निषद्य इमम् यज्ञम् अभि गृणीत विश्वे।
मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरूषता कराम॥14॥

आसीनासोऽ अरूणीनाम् उपस्थे रयिम् धत्त दाशुषे मर्त्याय।
पुत्रेभ्यः पितरः तस्य वस्वः प्रयच्छत तऽ इह ऊर्जम् दधात॥15॥

॥ ॐ शांति: शांति:शांति:॥
पितृ कवच के पाठ से होगा पितृ दोष निवारण,

बगलामुखी कवच

यह बगलामुखी कवच, मात्र कवच ही नही अपितु एक अमोघ कवच है, इस कवच का नित्य पाठ करने से साधक पूर्ण रूप से सुरक्षित रहता है, उस पर किसी भी तरह का कोई तांत्रिक प्रयोग नही हो सकता, यदि हुआ होता है, तो वह धीरे-धीरे समाप्त हो जाता है, पूर्ण लाभ के लिए साधक को “बगलामुखी गुटिका” धारण करके, पीले आसन पर बैठ कर इस कवच का पाठ करे।

अथ बगलामुखी कवचं प्रारभ्यते

श्रुत्वा च बगला पूजां स्तोत्रं चापि महेश्वर। इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो।।

वैरिनाशकरं दिव्यं सर्वाऽशुभविनाशकम्। शुभदं स्मरणात्पुण्यं त्राहि मां दु:ख-नाशनम्।।

श्री भैरव उवाच  

कवच श्रृणु वक्ष्यामि भैरवि । प्राणवल्लभम् । पठित्वा धारयित्वा तु त्रैलोक्ये विजयी भवेत्।।

विनियोग 

ॐ अस्य श्री बगलामुखीकवचस्य नारद ऋषि: अनुष्टुप्छन्द: श्रीबगलामुखी देवता। ह्रीं बीजम्। ऐं कीलकम्। पुरुषार्थचतुष्टयसिद्धये जपे विनियोग:।।

अथ कवचम् 

शिरो मे बागला पातु ह्रदयैकक्षरी परा ।ॐ ह्रीं ॐ मे ललाटे च बगला वैरिनाशिनी।।

गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी। वैरि जिह्राधरा पातु कण्ठं मे बगलामुखी।।

उदरं नाभिदेंश च पातु नित्यं परात्परा। परात्परतरा पातु मम गुह्रं सुरेश्वरी।।

हस्तौ चैव तथा पादौ पार्वती परिपातु मे। विवादे विषमे घोरे संग्रामे रिपुसंकटे।।

पीताम्बरधरा पातु सर्वांगं शिवंनर्तकी। श्रीविद्या समयं पातु मातंगी पूरिता शिवा।।

पातु पुत्रीं सूतञचैव कलत्रं कलिका मम। पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा।।

रंध्रं हि बगलादेव्या: कवचं सन्मुखोदितम्। न वै देयममुख्याय सर्वसिद्धि प्रदायकम्।।

पठनाद्धारणादस्य पूजनादवांछितं लभेत्। इंद कवचमज्ञात्वा यो जपेद् बगलामुखीय।।

पिबन्ति शोणितं तस्य योगिन्य: प्राप्य सादरा: । वश्ये चाकर्षणे चैव मारणे मोहने तथा।।

महाभये विपतौ च पठेद्वरा पाठयेतु य:। तस्य सर्वार्थसिद्धि:। स्याद् भक्तियुक्तस्य पार्वति।।

बुध ग्रह कवच

अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः,

अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ॥

अथ बुध कवचम्

बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः

पीताम्बरधरः पातु पीतमाल्यानुलेपनः ॥

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा

नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥

घाणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम

कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ॥

वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः

नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥

जानुनी रौहिणेयश्च पातु जङ्घ्?? उखिलप्रदः

पादौ मे बोधनः पातु पातु सौम्यो?? उखिलं वपुः ॥

अथ फलश्रुतिः

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम्

सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ॥

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम्

यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ।

॥ इति श्रीब्रह्मवैवर्तपुराणे बुध कवच सम्पूर्णम् ॥

बृहस्पति कवच

अथ 

अस्य श्रीबृहस्पतिकवचस्तोत्रमंत्रस्य ईश्वरऋषिः ।

अनुष्टुप् छंदः । गुरुर्देवता । गं बीजं श्रीशक्तिः ।

क्लीं कीलकम् । गुरुपीडोपशमनार्थं जपे विनियोगः ॥

अभीष्टफलदं देवं सर्वज्ञम् सुर पूजितम् ।

अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ॥

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।

कर्णौ सुरगुरुः पातु नेत्रे मे अभीष्ठदायकः ॥

जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।

मुखं मे पातु सर्वज्ञो कंठं मे देवतागुरुः ॥

भुजावांगिरसः पातु करौ पातु शुभप्रदः ।

स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥

नाभिं केवगुरुः पातु मध्यं पातु सुखप्रदः ।

कटिं पातु जगवंद्य ऊरू मे पातु वाक्पतिः ॥

जानुजंघे सुराचार्यो पादौ विश्वात्मकस्तथा

अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः ॥

इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः ।

सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ॥

॥ इति श्रीब्र्ह्मयामलोक्तं बृहस्पति कवच संपूर्णम् ॥

ब्रह्मचारिणी देवी कवच

॥ कवच ॥

त्रिपुरा में हृदयेपातु ललाटेपातु शंकर भामिनी।

अर्पणा सदा पातु नेत्रो अर्धरोचक पोलो॥

पंचदशी कण्ठे पातु मध्यदेशे पातु महेश्वरी॥

षोडशी सदा पातु नाभो गृहोच पादयो।

अंग प्रत्यंग सतत पातुब्रह्मचारिणी॥

ब्रह्माण्ड मोहनाख्यं दुर्गा कवच

नारद उवाच

भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद । ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद ॥

नारायण उवाच ।

शृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् । श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा ॥

ब्रह्मणा कथितं पूर्वं धर्माय जान्हवीतटे । धर्मेण दत्तं मह्यं च कृपया पुष्करे पुरा ॥

त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा । ममोच ब्रह्मा यद्धृत्वा मधुकैटभयोर्भयात् ॥

सञ्जहार रक्तबीजं यद्धृत्वा भद्रकालिका । यद्धृत्वा हि महेन्द्रश्च सम्प्राप कमलालयाम् ॥

यद्धृत्वा च महायोद्धा बाणः शत्रुभयङ्करः । यद्धृत्वा शिवतुल्यश्च दुर्वासा ज्ञानिनां वरः ॥

ॐ दुर्गेति चतुर्थ्यंतः स्वाहान्तो मे शिरोऽवतु । मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ॥

विचारो नास्ति वेदे च ग्रहणेऽस्य मनोर्मुने । मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः ॥

मम वक्त्रं सदा पातु ॐ दुर्गायै नमोऽन्तकः । ॐ दुर्गे इति कण्ठं तु मन्त्रः पातु सदा मम ॥

ॐ ह्रीं श्रीमिति मन्त्रोऽयं स्कन्धं पातु निरन्तरम् । ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा॥

ह्रीं मे वक्षस्थले पातु हं सं श्रीमिति सन्ततम् । ऐं श्रीं ह्रीं पातु सर्वाङ्गं स्वप्ने जागरणे सदा ॥

प्राच्यां मां पातु प्रकृतिः पातु वह्नौ च चण्डिका । दक्षिणे भद्रकाली च नैऋत्यां च महेश्वरी ॥

वारुण्यां पातु वाराही वायव्यां सर्वमङ्गला । उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया ॥

जले स्थले चान्तरिक्षे पातु मां जगदम्बिका । इति ते कथितं वत्स कवचं च सुदुर्लभम् ॥

यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् । गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ॥

कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः । स्नाने च सर्वतीर्थानां पृथिव्याश्च प्रदक्षिणे ॥

यत्फलं लभते लोकस्तदेतद्धारणे मुने । पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम् ॥

लोके च सिद्धकवचो नावसीदति सङ्कटे । न तस्य मृत्युर्भवति जले वह्नौ विषे ज्वरे ॥

जीवन्मुक्तो भवेत्सोऽपि सर्वसिद्धीश्वरीश्वरि । यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम् ॥

॥ इति श्रीब्रह्मवैवर्ते प्रकृतिखण्डान्तर्गत ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम् सम्पूर्णम् ॥

भुवनेश्वरी कवच

पातकं दहनं नाम कवचं सर्व्वकामकम्।

श्रृणु पार्व्वति वक्ष्यामि तव स्नेहात्प्रकाशितम्।।

पातकं दहनस्यास्य सदाशिव ऋषिः स्मृतः।

छन्दोअनुष्टुप देवता च भुवनेश्वरी प्रकीर्त्तिता।

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः।।

ऐं बीजं मे शिरः पातु ह्रीं बीजं वदनं मम्।

श्रीं बीजं कटिदेशन्तु सर्वांग भुवनेश्वरी।

दिक्षु चैव विदिक्ष्वीयं भुवनेश्वरी सदावतु।।

अस्यापि पठनात्सद्यः कुबेराअपि धनेश्वरः।

तस्मात्सदा प्रयत्नेन पठेयुर्म्मानवा भुवि।।

।।इति श्री भुवनेश्वरी कवचम् सम्पूर्णं।।

“भ” से “व” तक=>

MNSPandit

चलो चले संस्कृति और संस्कार के साथ

One thought on “संपूर्ण कवच- “द” से “भ” तक

अपना बिचार व्यक्त करें।

This site uses Akismet to reduce spam. Learn how your comment data is processed.