गौरी और गणेश पूजन विधि और मंत्र संस्कृत में

मुख पृष्ठगौरी और गणेश पूजन

गौरी और गणेश पूजन

गणपति (विघ्नहर्ता) और माता गौरी (शक्ति व सौभाग्य की देवी) का संयुक्त पूजन
शुभारंभ, बुद्धि, सुख-समृद्धि, गृहशांति और मंगलकामना के लिए किया जाता है।
किसी भी शुभ कार्य से पहले गणपति पूजन अनिवार्य माना गया है, और गौरी पूजन से जीवन में शक्ति, पवित्रता और संतुलन आता है।

पूजन की तैयारी

  1. स्वच्छ स्थान और स्वच्छ वस्त्र
  2. चौकी/आसन
  3. गणपति व गौरी की मूर्ति या चित्र
  4. जल, गंगाजल
  5. रोली, अक्षत (चावल)
  6. पुष्प, दूर्वा (गणपति के लिए),
  7. सुहाग सामग्री (गौरी के लिए)
  8. धूप, दीप
  9. नैवेद्य (मोदक/लड्डू, फल, मिठाई)

(पूजा में जो वस्तु विद्यमान न हो उसके लिये ‘मनसा परिकल्प्य समर्पयामि’ कहे। जैसे, आभूषण के लिये ‘आभूषणं मनसा परिकल्प्य समर्पयामि’।)

हाथ में अक्षत लेकर ध्यान करे-

भगवान् गणेश का ध्यान- गजाननं भूतगणादिसेवितं कपित्थजम्बू फलचारुभक्षणम्।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्॥

भगवती गौरी का ध्यान- नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥
श्रीगणेशाम्बिकाभ्यां नमः, ध्यानं समर्पयामि।

भगवान् गणेश का आवाहन- ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति -हवामहे निधीनां त्वा निधिपति हवामहे वसो मम।
आहमजानि गर्भधमा त्वमजासि गर्भधम्।
(यजुर्वेद २३ /१९)

एहोहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष।
माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते॥
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च।

हाथ के अक्षत गणेशजी पर चढ़ा दे। फिर अक्षत लेकर गणेशजी की दाहिनी ओर गौरीजी का आवाहन करे।

भगवती गौरी का आवाहन- ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम्॥
(शु० य० २३ /१८)

हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम्।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्॥
ॐ भूर्भुवः स्वः गौर्यै नमः, गौरीमावाहयामि, स्थापयामि, पूजयामि च।
प्रतिष्ठा- ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु।
विश्वे देवास इह मादयन्तामो म्प्रतिष्ठ॥
(यजुर्वेद २/१३)

क्षरन्तु च। कश्चन॥ भवेताम्। अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः अस्यै देवत्वमर्चायै मामहेति च गणेशाम्बिके! सुप्रतिष्ठिते वरदे प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः।

आसन के लिये अक्षत समर्पित करे-

पाद्य, अर्घ्य, आचमनीय, स्नानीय, पुनराचमनीय।
ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्॥
(यजु० १/१०)

एतानि पाद्यार्थ्यांचमनीयस्नानीयपुनराचमनीयानि समर्पयामि गणेशाम्बिकाभ्यां नमः। -इतना कहकर जल चढ़ा दे।

दूध से स्नान कराये-

दुग्ध स्नान- ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः।
पयस्वतीः प्रदिशः सन्तु मह्यम्॥
(यजुर्वेद १८/३६)

कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्।
प्रावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पयःस्नानं समर्पयामि।

दधि से स्नान कराये-

दधि स्नान- ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः।
सुरभि नो मुखा करत्प्र ण आयू षि तारिषत्॥
(यजुः २३/३२)

पवसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दधिस्नानं समर्पयामि।

घृत से स्नान कराये-

घृत स्नान- ॐ घृतं मिमिक्षे घृतमस्य योनिर्वृते श्रितो घृतम्वस्य धाम।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्।
(यजु १७/८८)

नवनीतसमुत्पन्नं सर्वसंतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, घृतस्नानं समर्पयामि।

मधु से स्नान कराये-

मधु स्नान- ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः।
माध्वीर्नः सन्त्वोषधीः॥
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः। मधु द्यौरस्तु नः पिता॥
(यजु० १३/२७-२८)

सुस्वादु पुष्परेणुसमुद्भूतं तेजः मधुरं मधु।
पुष्टिकरं दिव्यं स्नानार्थ प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि।

शर्करा से स्नान कराये-

शर्करा स्नान- ॐ अपारसमुद्वयस सूर्ये सन्त समाहितम्।
अपा रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम्॥
(यजु० ९/३)

इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शर्करास्नानं समर्पयामि।

पञ्चामृत से स्नान कराये-

पञ्चामृत स्नान- ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्त्रोतसः।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित्॥
(यजु० ३४/११)

पञ्चामृतं मयानीतं पयो दधि घृतं मधु।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पञ्चामृतस्नानं समर्पयामि।

गन्धोदक से स्नान कराये-

गन्धोदक स्नान- ॐ ऑंशुना ते ऑंशुः पृच्यतां परुषा परुः।
गन्धस्ते सोममवतु मदाय रसो अच्युतः॥
(यजु० २०/२७)

मलयाचलसम्भूतचन्दनेन विनिःसृतम्।
इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, गन्धोदकस्नानं समर्पयामि।

शुद्ध जल से स्नान कराये-

शुद्धोदक स्नान- ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्वेताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः॥ (यजु २४/३)

गङ्गा च यमुना चैव गोदावरी सरस्वती।
नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शुद्धोदकस्नानं समर्पयामि।

आचमन के लिये जल दे-

आचमनीयं जलं समर्पयामि।

आचमन- शुद्धोदक स्नानान्ते।

वस्त्र समर्पित करे-

वस्त्र- ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः॥
(ऋग ३/८/४)

शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, वस्त्रं समर्पयामि।

आचमन के लिये जल दे-

आचमन- वस्त्रान्ते आचमनीयं जलं समर्पयामि।

उपवस्त्र समर्पित करे-

उपवस्त्र- ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः।
वासो अग्ने विश्वरूप सं व्ययस्व विभावसो॥
(यजु० ११/४०)

यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रम् समर्पयामि)।

आचमन के लिये जल दे-

आचमन- उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।

यज्ञोपवीत समर्पित करे-

यज्ञोपवीत- ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्।
आयुष्यमप्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।
उपवीतं मया दत्तं गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, यज्ञोपवीतं समर्पयामि।

आचमन के लिये जल दे-

आचमन- यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि।

चन्दन अर्पित करे-

चन्दन- ॐ त्वां गन्धर्वा अखनैस्त्वामिन्द्रस्त्वां बृहस्पतिः।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत॥
(यजु० १२/९८)

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्।
विलेपनं सुरश्रेष्ठ! चन्दनं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, चन्दनानुलेपनं समर्पयामि।

अक्षत चढ़ाये-

अक्षत- ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी॥
(यजु० ३/५१)

अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि।

पुष्प माला समर्पित करे-

पुष्प माला- ॐ ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः॥
(यजु० १२/७७)

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पमालां समर्पयामि।

दूर्वाङ्कर चढ़ाये-

दूर्वा- ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि।
एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च॥
(यजु० १३। २०)

दूर्वाङ्करान् सुहरितानमृतान् मङ्गलप्रदान्।
आर्नातांस्तव पूजार्थं गृहाण गणनायक॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्करान् समर्पयामि।

सिन्दूर अर्पित करे-

सिन्दूर- ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः॥
(यजु १७/९५)

सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सिन्दूरं समर्पयामि।

अबीर आदि चढ़ाये-

अबीर, गुलाल आदि नाना परिमल द्रव्य- ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेति परिबाधमानः।
हस्तघ्नो विश्वा वयुनानि पुमाॅंसं परि पातु विश्वतः॥ विद्वान् पुमान्
(यजु० २९/५१)

अबीरं च गुलालं च हरिद्रादिसमन्वितम्।
नाना परिमलं द्रव्यं गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि।

सुगन्धित द्रव्य अर्पण करे-

सुगन्धिद्रव्य- ॐ अहिरिव विश्वतः॥
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि।

धूप दिखाये-

धूप- ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः।
देवानामसि वह्नितम सस्नितमं पप्रितमं जुष्टतमं देवहूतमम्॥
(यजु० १/८)

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आग्नेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि।

दीप दिखाये-

दीप – ॐ अग्निज्योंतिज्योंतिरग्निः स्वाहा सूर्यो ज्योतिज्योंतिः सूर्यः स्वाहा।
अग्निर्वों ज्योतिर्वर्चः स्वाहा सूर्यो वर्षों ज्योतिर्वर्चः स्वाहा ॥
ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा॥
(यजु० ३/९)

साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि।

हस्तप्रक्षालन- ‘ॐ हृषीकेशाय नमः’ कहकर हाथ धो ले।

नैवेद्य निवेदित करे-

नैवेद्य- नैवेद्यको प्रोक्षित कर गन्ध-पुष्प से आच्छादित करे। तदनन्तर जल से चतुष्कोण घेरा लगाकर भगवान्‌ के आगे रखे।

ॐ नाभ्या आसीदन्तरिक्ष शीर्णो द्यौः समवर्तत।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँर अकल्पयन्॥
(यजु ३१/१३)

ॐ अमृतोपस्तरणमसि स्वाहा।
ॐ प्राणाय स्वाहा।
ॐ अपानाय स्वाहा।
ॐ समानाय स्वाहा।
ॐ उदानाय स्वाहा।
ॐ व्यानाय स्वाहा।
ॐ अमृतापिधानमसि स्वाहा।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि।

जल समर्पित करे-

नैवेद्यान्ते आचमनीयं जलं समर्पयामि।

ऋतु फल अर्पित करे-

ऋतु फल- ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्व हसः॥
(यजु० १२/८९)

इदं फलं मया देव स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि।

आचमनीय जल अर्पित करे-

फलान्ते आचमनीयं जलं समर्पयामि।

जल दे-

उत्तरापोऽशन- उत्तरापोऽशनार्थे जलं समर्पयामि। गणेशाम्बिकाभ्यां नमः।

करोद्वर्तन ॐ अ शुना ते शुः पृच्यतां परुषा परुः।
गन्धस्ते सोममवतु मदाय रसो अच्युतः॥
(यजु० २०/२७)

मलयचन्दन समर्पित करे-

चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देव गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तनकं चन्दनं समर्पयामि।

इलायची, लौंग-सुपारीके साथ ताम्बूल अर्पित करे-

ताम्बूल- ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः॥
(यजु ३१/१४)

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम् एलालवंग-पूगीफलसहितं ताम्बूलं समर्पयामि।

द्रव्य दक्षिणा समर्पित करे-

दक्षिणा- ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम॥
(यजु० १३।४)

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कृतायाः पूजायाः।
सादुण्यार्थे द्रव्यदक्षिणां समर्पयामि।

ॐ इद हविः प्रजननं मे अस्तु दशवीर सर्वगण स्वस्तये।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु घत्त॥
(यजु० १९/४८)

ॐ आ रात्रि पार्थिव रजः पितुरप्रायि धामभिः।
दिवः सदा सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः॥
(यजु० ३४/३२)

कर्पूर की आरती करे, आरती के बाद जल गिरा दे-

कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, आरार्तिकं समर्पयामि।

पुष्पाञ्जलि- ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥
(यजुः ३१/१६)

ॐ गणानां त्वा॥ (पृ० १७४)
ॐ अम्बे अम्बिके॥
(पृ० १७४)

पुष्पाञ्जलि अर्पित करे-

नानासुगन्धिपुष्याणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पाञ्जलिं समर्पयामि।

प्रदक्षिणा करे-

प्रदक्षिणा- ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः।
तेषा सहस्रयोजनेऽव धन्वानि तन्मसि॥
(यजु० १६/६१)

यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि।

विशेषार्घ्य दे-

विशेषार्घ्य- ताम्रपात्रमें जल, चन्दन, अक्षत, फल, फूल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्रको हाथमें लेकर निम्नलिखित मन्त्र पढ़े-

रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक।
भक्तानामभयं कर्ता त्राता भव भवार्णवात् द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद॥
अनेन सफलार्येण वरदोऽस्तु सदा मम।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषायं समर्पयामि।

साष्टाङ्ग नमस्कार करे-

प्रार्थना- विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्विताय।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते॥
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः नमस्ते रुद्ररूपाय करिरूपाय ते नमः।
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे भक्तप्रियाय देवाय नमस्तुभ्यं विनायक॥
त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव॥
त्वं वैष्णवी शक्तिरनन्तवीर्या सम्मोहितं देवि विश्वस्य बीजं परमासि माया।
समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।

गणेशपूजने कर्म यन्यूनमधिकं कृतम्।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम॥
अनया पूजया गणेशाम्बिके प्रीयेताम्, न मम।
-ऐसा कहकर समस्त पूजनकर्म भगवान्‌को समर्पित कर दे! तथा पुनः नमस्कार करे।

  • अचल प्रतिमाका विसर्जन नहीं किया जाता, किंतु आवाहित एवं प्रतिष्ठित देव-प्रतिमाओंका विसर्जन करना चाहिये।

मुख पृष्ठ

MNSGranth

We Are Prepare You For The Future.

अपना बिचार व्यक्त करें।

This site uses Akismet to reduce spam. Learn how your comment data is processed.

0%
 📖 आगे पढ़ें 
 SHORTS
1
642
0
0
₹

Discover more from 𝕄ℕ𝕊𝔾𝕣𝕒𝕟𝕥𝕙

Subscribe now to keep reading and get access to the full archive.

Continue reading

Trishul